Posts

कालिदासस्य जीवनवैभवम्

कालिदासः साहित्यलोके असंख्याः कवयः वर्तन्ते इति जानीमः । किन्तु तेषु अत्यल्पानामेव कविताः अहं पठितवान् । तथापि मनसि प्रविष्टानां कवीनां मध्ये कालिदासमहाकविः मम प्रियतमः । तस्मै आसन्दः किञ्चिदुन्नतस्थाने एव मया कल्पितः अस्ति । कारणं किमिति स्पष्टतया अहमपि न जानामि । संस्कृतपठनं यदा आरब्धवान् तथा आरभ्य कालिदासनाम शुणोमि स्म । किन्तु तदा तावत् श्रध्दा नासीत् । एकदा गुरुनाथः वर्गे एकं श्लोकं पाठितवान् यत्  – जम्बूफलानि पक्वानि पतन्ति विमले जले । कपिकम्पितशाखाभ्यः गुळुगुग्गुळु गुग्गुळु ॥ इति ॥ एतस्य अन्तिमं पादं मह्यं बहु अरोचत । अहं तत् प्रत्यक्षमुक्तवान् च । तदा अध्यापकः कालिदासकथां आरम्भतः अवसानपर्यन्तं बहुदिनैः उक्त्वा समापितवान् । तदानीम अहं ज्ञातवान् यत् ट्ण्डंटडण्डं टडडण्डडण्डम् इत्यादयः बहवः श्लोकाः सन्तीति । कालिदासविषये मम जिज्ञासां दृष्ट्वा गुरुः द्वित्रपुस्तकानि मह्यं दत्तवान् । तदहं शीघ्रमेव पठित्वा प्रत्यर्पितवान् च । तदानीं गुरुः उक्तवान् यत् अन्यः कालिदासमधिकृत्य किं वदति इत्यपेक्षया स्वयं कालिदासं पठति चेदेव उक्तमम् इति । ततः आरभ्य गुरोः साहाय्येन कालिदासकृती

कविता(मदीया मातृभूमिः)

 मदीया  मातृभूमिः

नाटके दर्शकैर्नायकः सेव्यते । गजलम्

Image
संस्कृत-गजलम्

संस्कृतगीतम्

Image

कुत्र कदा च का भीषणा ?

कुत्र का भीषणा ? विचार्यताम् .....

परमश्रद्धेया गुरूचरणाः

Image

नदी कीदृशी अस्ति ? मदीयो विचारः ।

नदी कीदृशी नदी संगीतसंलग्ना स्वनं देदीयते किञ्चित् । समेषां भावनां चित्तं स्वतो नेनीयते किञ्चत् ।। मनुष्या देवता भक्त्या समर्चन्त्येव सानन्दम् । सदा त्वामेव सर्वोऽपि क्षणं जेगीयते किञ्चित् ।। जनान् धर्मस्य मार्गे त्वं नयन्ती प्रेरयन्त्यासीः । विलोक्य त्वाञ्जनः पापाद्भृशं बेभीयते किञ्चित् ।। गभीरासीर्महत्तायां सुधीरासीः क्वचिच्छान्ता । त्वदीयं नैव गाम्भीर्यं जनो मेमीयते किञ्चित् ।। न आषाढेन संवृद्धा लघुः कुल्याः सदा भाति । तवेदं वैभवं दृष्ट्वा कथं जेजीयते किञ्चित् ।। भयं नास्ति क्वचित्, नित्यं चलित्वा नास्ति विश्रामः ।। प्रयासं कः कथं रोद्धुं वृथा चेक्रीयते किञ्चित् ।। -चिरञ्जीवी खतिवडा

महेश-संस्कृत-गुरूकुलम्

महेश संस्कृत गुरुकुल